Tuesday, October 9, 2018

पाठः - संहिता

                  
"परः सन्निकर्षः संहिता"(अ. १.४.१०९) इति भगवता पाणिनिना प्रोक्तं संहिताविधायकं सूत्रम्। अत्र परशब्दः अतिशयवाची। सन्निकर्षशब्दस्तु सामीप्यबोधकः।  तस्माद् वर्णानामतिशयितसन्निधिसंहितासंज्ञकं स्यादित्यर्थः संगच्छते।  संहिता कुत्रापि अनिवार्यतया विधेया, कुत्रापि वा    विवक्षाधीना। अस्मिन्   विषये अस्ति कारिकैका--

"संहितैकपदे नित्या नित्या धातूपसर्गयोः।
समासेऽपि च नित्या स्यात् सा चान्यत्र विभाषिता।। "

एकपदे, धातूपसर्गयोः, समासे च संहिता अवश्यविधेया। एतदतिरिच्य अन्यत्र सा इच्छाधीनेति कारिकाशयः।  एकपदे यथा - पो+अनः इति स्थितौ पवनः इति, धातूपसर्गयोः यथा - प्र+अविशत् इत्यवस्थायां प्राविशत् इति, समासे उदाहरणं यथा-पञ्चानाम् आननानां समाहारः इत्यत्र पञ्चाननः इति। वाक्ये संहिता तु वक्तुः इच्छाधीना अस्ति, यथा रामः गच्छति इति भवितुमर्हति, रामो गच्छति इत्यपि वा।
एकपदीभावः समासः इति नियमेन समासे एकपदत्वम् अस्त्येव, तथापि अनया कारिकया एकपदस्य ग्रहणं किमर्थं पुनः पृथक्तया क्रियते? - इति शङ्का उदेति। अत उच्यते अत्र एकपदत्वं नाम पदत्वे सति पदत्वाभाववदुत्तरखण्डघटितत्वमिति। समासे तु पदत्वाभाववदुत्तरखण्डघटितत्वं नास्ति। तस्मात्तस्य अन्तर्भाव एकपदे न भवतीति हेतोः तस्य पृथग्ग्रहणमिति शिवम्।

सहायकग्रन्थाः-

लाहिडी-शास्त्रिसम्पादितं पाणिनीयम्।

बालमनोरमा-तत्त्वबोधिनीटीकायुता वैयाकरणसिद्धान्तकौमुदी।