Thursday, April 9, 2020

सापेक्षत्वेऽपि गमकत्वात् समासः

व्यपेक्षायां सत्यां पदानां पदयोः वा भवति समासः, नान्यत्र। ननु 'देवदत्तस्य गुरुकुलम्' इत्यत्र कथं समासः, देवदत्तस्य गुरुशब्देन सम्बन्धत्वात्। अपि च, 'पदार्थः पदार्थेन अन्वेति , न तु पदार्थैकदेशेन' इति न्यायेन गुरौ कुलविशेषणे देवदत्तविशेषणं नान्वेति, विशिष्टस्य गुरुकुलमित्यस्य एकपदार्थतया गुरोः पदार्थैकदेशत्वात्। अत्रोत्तरं दीयते- उपसर्जनस्य नित्यसापेक्षत्वादत्र समासः। यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रधाने कुल एवान्वेति। तत्र गुरुणा कुलस्य उत्पाद्यत्वसम्बन्धेनान्वयः। देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः। अस्मिन् विषये मानं हि- 'सापेक्षत्वेपि गमकत्वात् समासः' अर्थात् वृत्तिबहिर्भूतस्य पदस्य सापेक्षतायां सत्यां वाक्यस्य अर्थावबोधकत्वात् नैवात्र समासत्वहानिः। उक्तं च हरिणा--
"सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते।
         वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते।।" इति।

अत्रोल्लेख्यं यद् अयं समासो नैव सार्वत्रिकः। केवलं प्रतियोगिपदे कारकपदे च सम्बन्धो नित्यः। एवंविधस्थले वृत्तिस्थपदेनापि प्रतियोगिनः, कारकपदस्य च अन्वयः निर्बाधः। 'देवदत्तस्य गुरुकुलम्' इत्यत्र गुरोः प्रतियोगिपदं 'देवदत्तः'। अतएव सम्बन्धस्य नित्यत्वात् समासोऽपि निर्बाधः। तथैव 'वाणेन भिन्नहृदयः' इत्यत्र कारकपदेन भिन्नशब्दस्य सम्बन्धो निर्बाधः, तस्मात् समासोऽपि निर्बाधः। तथा चोक्तं हरिणा--
"प्रतियोगिपदादन्यद् यदन्यत् कारकादपि।
           वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन नेष्यते।।"  इति।

No comments:

Post a Comment